शनिवार, 19 अगस्त 2017

चित्तप्रसुप्तिः

                            मङ्गलम्


अहङ्कारः कुतो यातो बुद्ध्या नैव विचिन्वते । 
चित्तप्रसुप्तिः सञ्जाता तुरीयान्तर्गतं मनः ॥१॥
चिदानन्दार्णवे मग्नं मनः क्वापि न सज्जते । 
यत् किञ्चिज्जायते तत्तु मया नैव प्रबुध्यते ॥२॥
कोऽहं जाने नात्र शम्भो शिवः साक्षाच्छिवः शिवः।
मङ्गलं तन्वते नित्यं विश्वस्मिञ्जगति स्थितौ ॥३॥







कोई टिप्पणी नहीं: