सोमवार, 9 फ़रवरी 2009

मङ्गलं

अहङ्कारः कुतो यातो बुद्ध्या नैव विचिन्वते । चित्तप्रसुप्तिः सञ्जाता तुरीयान्तर्गतं मनः ॥१॥

चिदानन्दार्णवे मग्नं मनः क्वापि न सज्जते । यत् किञ्चिज्जायते तत्तु मया नैव प्रबुध्यते ॥२॥

को/हं जाने नात्र शम्भो शिवः साक्षाच्छिवः शिवः।मङ्गलं तन्वते नित्यं विश्वस्मिञ्जगति स्थितौ ॥३॥